योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां |
विष्णोरिति । वीर्याणि महिम्नः को वा कथयतु गणयेद्, न कोऽपि । कश्च धरणेः रेणून् मिमीते । तदपि न कोऽपि । यस्य विष्णोः अङ्घ्रित्रयेण त्रिभिः पदन्यासैः त्रिजगत् त्रैलोक्यम् अभिमितं परिच्छिन्नम् । अतो बलेरादाय स्वभुजगुप्ततया पूर्णसम्पद् मोदते सन्तुष्टसकलजनं च वर्तते । किञ्च, योऽसौ विष्णुः विश्वानि सर्वलोकं धत्ते योगैश्वर्येण धारयति, तस्य प्रियं धाम वैकुण्ठम् अभियायाम् अहं प्राप्नुयां, यत्र तद्भक्ता माद्यन्ति । अमृतरसो मोक्षसुखं, तद्रूपस्य मरन्दस्य मधुनो यत्र वैकुण्ठे प्रवाहः सर्वतो निष्यन्दः ॥ १ ॥
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- |
आद्यायेति । आदौ भवाय अत एव अशेषकर्त्रे सर्वकारणाय प्रतिनिमिषनवीनाय उपासकानां नित्यनूतनाय विभूतेः श्रियः भर्त्रे । प्रेमलक्षणभक्तियुक्त आत्मा मनो यस्य सः । यस्तथाभूतः उक्तरूपाय विष्णवे यज्ञार्चनादौ हविरादीनि प्रदिशति, यो वा महतो विष्णोः महत् पूजनीयं कृष्णाद्यं जन्म अवतारं वर्णयेत्, सोऽयं भक्त एवेह यथेष्टसुखानुभवेन प्रीतः यशोभिः पूर्णः अन्ते शरीरपाते त्वरितं जन्मान्तरविलम्बमन्तरेण तत् पदं वैकुण्ठलोकम् अभिसरेत् प्राप्नुयाद्, नान्यः ॥
यत एवम्, अतस्तमेव स्तुवीध्वमित्याह -
हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव |
- ↑ 'ते' क.ग. पाठ:.