पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९९]
३६५
भगवन्महिमानुवर्णनम् ।


कर्तृत्वभोक्तृत्वादिरहितम्। निर्द्वन्द्वम् अद्वितीयम् । निर्विकार परिणामादिविक्रियार हितम् । निखिलानां ये गुणगणाः क्षमासत्यदयैश्वर्यादयः, तेषां व्यञ्जनम् उत्पत्तिः, तदाधारभूतम् । यदुपासने हि महागुणानामुत्पत्तिः । निर्मूलं निष्कारणम् । निर्मलं रागादिदोषहीनं, चित्प्रकाशत्वाद् निरस्ताज्ञानम् । निरवधिमहिमोल्लासि कालदेशापरिच्छिन्नवैभवयुक्तम् । निस्सङ्गानां मुनीनामन्तः समाधौ निर्लीनं प्रतिष्ठितम् । निरुपमः परमानन्दः सान्द्रः प्रकाशः सान्द्रावबोधश्च यस्मिन् ॥ १० ॥

 अथोक्तरूपं परं ब्रह्म प्राप्तानां न पुनः संसार इत्यभिप्रायेण कालचऋपरिभ्रमभयनिवृत्तिं प्रार्थयते—

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
 संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
 विष्णो ! कारुण्यसिन्धो ! पवनपुरपते ! पाहि सर्वामयौघात् ॥ ११ ॥

 दुर्वारमिति । हे विष्णो! ते कालचक्रं संवत्सरात्मकं चक्रं न तु मां व्यथयतु संसारदुःखं मा कार्षीत् । कीदृशं, दुर्वारं केनाप्यनिवारणीयम्। संवत्सरस्य द्वादश मासाः, तदात्मकद्वादशशिखरयुक्तम् । त्रिशतपरिमिलत्पष्टचा षष्ट्युत्तरशतत्रयेण दिनैः पर्वभिर्धारासन्धिभिः अभिवीतम् अभिव्याप्तम् । संभ्राम्यद् बंभ्रम्यमाणम् । त्र्कूरवेगं क्षणमनु प्रतिक्षणं जगदाच्छिद्य आदायादर्शनं नेतुं सन्धावमानम् ॥ ११ ॥

इति सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम्

अष्टनवतितम दशकं सैकम् ।


 अथ नवभिः क्ष्लोकैर्भगवन्महिमा वर्ण्यते-

विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून मिमीते
 यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।