नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं |
नो जात इीत । हे देव! जातो जायमानश्च यः पुरुषः, स कोऽपि त्वन्महिम्नोऽवसानं नाधिगतः न प्राप्तः । अतोऽहं श्रेयांसि विद्वान् इदेमव श्रेय इति निश्चित्य प्रतिमुहुः अनिशं ते नाम शंसामि सङ्कीर्तयामि । हे विष्णो ! तमपरिच्छिन्नमहिमानं त्वां नानाविधस्तुतिवचनैः संस्तौमि । निर्गुणे मनोनवगाहात् सगुणं त्वां स्तौमीत्यर्थः । अस्य लोकत्रयस्य ब्रह्माण्डस्योर्ध्वे विभ्राजमाने तत्र वेकुण्ठलोके विरचिता वसतिर्वासो यस्य ॥ ५ ॥
अथ श्रीनारायणरूपं स्तौति-
आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां |
आप इति । सृष्ट्यादिजन्या: 'अप एव ससर्जादौ' (मनु. १. ९ ) इति वचनाद् आपः प्रथममादौ त्वां गर्भदेशे दधुः । यत्र अपां मध्येऽवस्थिते त्वय्येव जीवाः सङ्गताः प्राप्ताः ऐक्यमापन् अनुशयिता अभवन् । कल्पान्ते सर्वजीवा ब्रह्मणा सह जलशायिनि श्रीनारायणे सङ्गता अनुशेरते । तस्य जलशयनस्य अजस्य विष्णोस्ते नाभौ विनिहितमधिष्ठितमेकं पद्ममभवत् । यत् पद्मं लोकरूपमाहुः । तदेवाह — दिश: पत्राणि दलांनि यस्य, कनकधरणिभृद् महामेरुः कर्णिका तत् । श्रीविष्णुरेव कमलजः सन् नाभिकमलेन भुवनमजनयदित्यर्थः ॥ ६ ॥
उक्तरूपं विष्णुमजानतः शोचन्नाह -
हे लोका विष्णुरेतद् भुवनमंजनयत् तन्न जानीथ यूयं |