हे लोका इति । हे लोकाः ! जनाः ! यो विष्णुः एतत् परिदृश्यमानं भुवनमजनयत्, तं विष्णुं यूयं किं न जानीथ । किञ्च, युष्माकमन्तरस्थं शरीरान्तर्भूतमपि
तदपरं तस्मादन्यत् संसारधर्मयुक्तं विष्णुरूपं विद्यते । अहो तदपि न जानीथ ।
किमिति न जानीमः, तत्राह - नीहारेति । आवरणशक्त्या हिमतुल्यया मायया परिवृतं व्याप्तं मनो येषां तथाभूताः सन्तः नामरूपैर्मोहिता मिथ्याभूतेषु शरीरादिष्व
हं[१]ममेत्यभिमन्यमानाः प्राणानामिन्द्रियाणां प्रीतिरेवैका प्रधानभूता तया तृप्ताः अत
एव स्वर्गादिसुखेच्छया मखपराः काम्यकर्मपराः चरथ । हन्त अहो कष्टं
मुकुन्दे मोक्षप्रदे विष्णौ नेच्छा ॥ ७ ॥
अथामूर्तां विश्वमूर्तेर्मूर्तिमनुसन्धत्ते –
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्ण विश्वं |
मूर्ध्नामिति । त्वं विराडभिमानी मूर्ध्नामक्ष्णां पदानां च सहस्राणि वहसि । ब्रह्माण्डानामनेकत्वात् तत्स्थसत्यलोकादिरूपाणां मूर्धादीनामनेकत्वम् । ततो विश्वं ब्रह्माण्डं सम्पूर्य व्याप्य तद् ब्रह्माण्डं प्रोत्क्रम्य[२] अतिक्रम्य तिष्ठन्नपि परिमितविवरे अतिसंकुचिते चित्तान्तरे हृदयाकाशे भासि । हे परमपुरुष! भूतं भव्यं सर्वे भवांश्चैव । किञ्च, देहेन्द्रियादिष्वाविष्टो यस्त्वं विषयरसान् भुङ्क्षे, स त्वमेव तस्मादुद्गतत्वादमृतसुखस्य परमानन्दस्य रसं चाप्यनुभुङ्क्षे ॥ ८ ॥