पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९१]
३१५
भक्तिस्वरूपतत्कार्यवर्णनम् ।


 भक्तेरिति । उत्पत्तिश्च वृद्धिश्च उत्पत्तिवृद्धी तवेश्वरस्य चरणौ जुषन्ते सेवन्ते इति चरणजुषो भक्ताः, तेषां सङ्गमेन संसर्गेणैव पुंसां शरीरिणाम् आसाद्ये लब्धं शक्ये, नान्योऽत्रोपाय इत्यर्थः । 'सत्सेवया विना कस्य विष्णुभक्तिः प्रजायत' इति वचनात् । तर्हि सत्सङ्गमः कथं स्यादित्यत आह - पुण्यभाजामिति । अनेकजन्मार्जितपुण्यसञ्चयानामेव सत्सङ्गम: स्यादिति भावः । अत्रानुरूपं दृष्टान्तमाह - श्रिय इवेति । यथा श्रियो धनधान्यादेरुत्पत्तिवृद्धी श्री [१] मतां सङ्गमेनैवोत्पाद्ये, तथेत्यर्थः । हे देव! श्रीकृष्ण! मम खलु सततं तत्सङ्गः तेषां भक्तानां सङ्गः संसर्गः भूयात् । तन्मुखात् तेषां तव चरणजुषां मुखाद् उन्मिषद्भिः मिथस्त्वच्चरितप्रस्ताव [२]प्रादुर्भूतैः न तु तैरुपदिष्टैः । अनेन च तेषां भगवच्चरितवर्णनशीलत्वं व्यज्यते । त्वन्माहात्म्यप्रकारैः तव विष्णोर्माहात्म्यस्य प्रकारैः श्रवण[३]कीर्तनस्मरणाद्याश्रिततया मार्गभेदैः भवति श्रीकृष्णे सुदृढा अनपायिनी उद्भूतपापा यथा दूरतोऽपसारिततिमिरनिकर एव तरणिरुदेति, तद्वद् दूरोत्सारितदुरितनिचया प्रेमलक्षणा भक्तिश्च मम सततं भूयादित्यनुषज्यते ॥ ४ ॥

 अथ सत्सङ्गमात्रेण स्वस्य साधनभक्तिद्वारा साध्यभक्त्युत्पत्तिप्रकार मुत्पश्यन् प्रथमं स्वस्य भक्तिमार्गेऽधिकार प्राप्तिमाह

श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
 गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।
उद्यद्धासः कदाचित् कुहचिदपि रुदन् कापि गर्जन् प्रगाय-
 न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्वरेयम् ॥ ५ ॥

 श्रेयोमार्गेष्विति । श्रेयसः पुरुषार्थस्य मार्गेषु प्राप्तिसाधनेषु कर्मज्ञानतपोदामत्रतादिषु मध्ये भक्तौ भक्तिमार्गे अघिका बहुमतिः श्रद्धा यस्य सोऽघिकबहुमतिः। सोऽयं भक्तिमार्गेऽघिक्रियत इति भावः । यदुक्तं—

"यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥”


  1. 'धनिनां स' क. ग. पाठः.
  2. 'वे प्रा' क. ग. पाठ:.
  3. 'णस्मरणनामकीर्तनाघा' क. ग. पाठः.