ननु विषयविक्षिप्तचेतसां कुतो मनःकर्मवागादीनामीश्वरे समर्पणं संभवतीत्याशङ्कय न तावद् विषयो नाम वास्तवोऽस्ति किन्तु मनोविलासमात्रम् । अतो मनोनिरोधपूर्वकं सर्वे समर्पयेदित्यभिप्रायेणाह--
भीतिर्नाम द्वितीयाद् भवति ननु मनःकल्पितं च द्वितीयं |
भीतिरिति । द्वितीयाद् आत्मात्मीयत्वेनाभिमन्यमानाच्छरीरादेः । नाम प्रसिद्धौ । देहात्मवादिनामन्येषामपि देहस्यैव जन्मादि, नात्मनः, तस्य नित्यत्वादिति प्रसिद्धम् । मनःकल्पितं मनसा सङ्कल्पविकल्पात्मिकयान्तःकरणवृत्त्या कल्पितम् आरोपितम् । ऐक्याभ्यासशीलः यथा मृदादेरुत्पन्नस्य घटादेर्मृदाद्यात्म[२]कत्वं, तथा ब्रह्मण उत्पन्नत्वाद् ब्रह्मैवेदं सर्वे न ततः पृथक् किञ्चिदस्तीति चिन्तनशीलः सन् हृदयं बुध्घा निश्चयात्मिक[३]यान्तःकरणवृत्त्या यथाशक्ति यावहुद्धिबलम् इह चिन्तितेऽर्थे निरुन्ध्यां नियच्छेयम् । तस्मिन् हृदये मायाविद्धे मायाकार्यकामक्रोधादिरञ्जिते सति पुनरपि निगृहीतेऽपि हृदये तथा न भाति नैक्यंज्ञानमवतिष्ठते । तत् तस्माद् मायाधिनाथं मायाखामिनं त्वां महत्या अनपायिन्या भक्त्या प्रेमलक्षणया सततमनुभजन् यथावसरं सेवमानः भीतिं संसारभयं विजयां विशेषेण सर्वात्मना त्यजेयम् ॥ ३ ॥
भक्त्यानुभजन्नित्युक्ते भक्तेरुत्पत्तिहेत्वपेक्षायामाह -
भक्त्तेरुत्पत्तिवृद्धी तव चरणजुषां सङ्गमेनैव पुंसा- |