इति । कुहचित् कुत्रापि न स्वलति अनुष्ठानवैकल्यादिना न प्रत्यवायी
स्यात् । नापि फलस्यानित्यतया पुनरपि संसारी स्यादित्यर्थः । इति यत्, तदभयतमं
मन्य इति पूर्वेणान्वयः ॥ १ ॥
भगवद्धर्मानाह –
भूमन् ! कायेन वाचा मुहुरपि मनसा त्वद्धलप्रेरितात्मा |
भूमन्निति । कायेन शिरःपाण्यादिना वाचा वागिन्द्रियेण मनसा अन्तरिन्द्रियेण । अपिशब्दात् सर्वेन्द्रियैरित्यर्थः । तव अन्तर्यामिण: बलेन वासनारूपेण प्रेरित आत्मा मनो यस्य स तथा मुहुः यद्यत् कुर्वे इति । अयमर्थः - न केवलं विहितं कर्मैवेति नियमः, किन्तु स्वभावानुसारि लौकिकमपि कर्म श्रीकृष्णे समर्पितं चेद् भगवद्धर्मो भवत्येवेति । असावहं तत् समस्तं परतरे परमात्मनि त्वयि श्रीकृष्णे अर्पयामि श्रीकृष्णायेदमिति समर्पयामि । अयं चाशयः - यथा राज्ञा प्रेरितस्य राजपुरुषस्य कर्म राज्ञः प्रीतये भवति, तथा सर्वात्मनेश्वरेण प्रेरितस्य मम सकलमपि कर्म श्रीकृष्णप्रीतये स्यादिति । अथवा तत्समर्पणमन्त्रपूर्वकं समर्पया[१]मीति । एवं भगवद्धर्मानुष्ठातुर्माहात्म्यमाह - जात्येति । मनः सङ्कल्पविकल्पात्मकं मानसं कर्म । कर्म कायिकम् । वाग् वाचिकम् । इन्द्रियाणि ज्ञानकर्मलक्षणानि । अर्थास्तद्विषयाः । प्राणाः पञ्च । विधिप्रतिषेधलक्षणं सर्वे कर्म शरीरवाङ्मनःप्रधानं, तदङ्गतया चेतरेन्द्रियकर्मेति त्रयाणां पृथगुपादानम् । त्वयि ईश्वरे निहिताः समर्पिताः मनःकर्मवागिन्द्रियार्थप्राणा येन तथाभूतः सन् जात्या श्वपाकोऽपि विश्वं पुनीते । किमुच्यते स्वात्मानं पुनीत इति । त्वत्पदादू विमुखं स्मरणादिरहितं मनो यस्य स तथा । एवम्भूतस्तु विप्रवर्यः सन्नपि नासौ परं चात्मनं वा [२] शोधयितुं समर्थ इत्यर्थः ॥ २ ॥