पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथैकादशस्कन्धपरिच्छेदः ।


प्रवृत्तिलक्षणा लीला प्राच्यैः पद्यैः प्रकीर्तिता ।
निवृत्तिलक्षणा सयं हरेर्लींला निरूप्यते ॥

 सम्प्रति भक्तानां मुक्तिमार्गप्रदर्शनाय भगवद्गुणान् वर्णयितुमारभमाणः प्रथमं मोक्षोपायमौलिभूतस्य भगवदुपासनस्य माहात्म्यं दर्शयति —

श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे-
 र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।
यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे
 धावन्नप्यावृताक्षः स्वलति न कुहचिद् देवदेवाखिलात्मन् ! ॥ १ ॥

 श्रीकृष्णेति । बद्धा रूढपदा मिथ्यार्थे शरीरादौ दृष्टिः अहम्ममाभिमानो यस्य, अत एव मर्त्यस्य जननमरणधर्मिणः, तस्मादार्तस्य आध्यात्मिकादिदुःख- पीडितस्य त्वत्पदोपासनमभयतमं न विद्यते भयं यस्मात् तदभयम् अतिशयेनाभयम् अभयतमं[१] भवभयनिवर्तकं मन्ये | अभयतमत्वमाह-येनेति । येन त्वत्पदोपासनेन भयं सर्वात्मनैव निरवशेषमेव व्यपसरति अपगच्छति । उपासनसाधनेषु च भगवद्धर्मोऽकुतोभय इत्याह – यदिति । इह भगवद्भजनमार्गेषु मध्ये त्वत्प्रणीतान् भक्तानुग्रहाय भगवतैव स्वमुखेनैव प्रोक्तान् अत एव भागवताख्यान् भजनविधीन् धर्मान् तावत् सत्सङ्गद्वारा क्रमादास्थित आश्रितः सन् मोहमार्गे अज्ञानद्वारभूतरथ्यापणगणिकालयगोष्ठयादिप्रदेशे[२]ष्वास्थितो धावन् किञ्चित् किञ्चिदतिक्रम्यातिक्रम्य अतिशीघ्रमनुतिष्ठन् अपिच आवृताक्षः निमीलितश्श्रुतिस्मृत्याख्यनयनद्वन्द्वः । अज्ञात्वापीत्यर्थः । यदाहुः---

“श्रुतिस्मृती उभे नेत्रे विप्राणां परिकीर्तिते ।
एकेन रहितः काणो द्वाभ्यामन्धः प्रकीर्तितः ॥”


  1. 'में जननमरणभय' क. ग. पाठः.
  2. 'श आस्थि' क. पाठः.