पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९०]
३११
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।


शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पाद[१] का एवैते, न तु विष्णोस्तामसत्वपराजयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥

उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कां वारयन् कविः श्रोतृश्रद्धां सम्पादयति -

यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं
 तन्मन्त्रशास्त्रवचनाद्यभिद्दष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत !
 क्लेशान विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥

 यत्किञ्चिदिति । व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्रीवेदव्यासस्य कृतकृत्यतापादकत्वात् तदुपगीत ! तत्प्रतिपाद्य ! ॥ ११ ॥ ५५९ ॥

इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

दशमस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसन्ह्खया ९३४.


  1. 'दनार्था ए' क. ग. पाठ:.