पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
[स्कन्धः-१०
नारायणीये


 "विष्णुर्विरिञ्चश्च यत्पादपद्मं शिरसा बिभर्ति " इत्यादिवच नैर्हरेर्निकृष्टता [१] व्यासेनैकोक्के पाशङ्कय तस्यार्थवादत्वेनातत्परत्वमाह 'ये स्वप्रकृत्यनुगुणम्' इति द्वाभ्यां -

ये स्वप्रकृत्यनुगुणा[२] गिरिशं भजन्ते
 तेषां फलं हि द्दढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
 स्कान्दादिकेषु तब हानिवचोऽर्थवादै ॥ ९ ॥

 य इति। “यस्येच्छा जायते यस्मिन् तं देवं स समाश्रयेद्” इति न्यायेन स्वप्रकृत्यनु[३] गुणं प्राग्जन्मवासनानुसारेण । तेषां दृढया तदीयभक्त्यैव फलं भविष्यतीति यत् तेन हेतुना व्यासो ह्यधिकारिहेतोः गिरीशभजनाधिकारिणं प्रति अर्थवादैः तव[४] हानिवचो न्यूनतावचनानि कृतवान् । अर्थवादाश्च गिरिशभजनरुच्युत्पादनार्थाः ॥ ९ ॥

 ननु रुच्युत्पादनार्थं चेद्, गिरिशं स्तू[५]यादेव, नान्यहानिवचः कुर्यादित्यत्राह -

भूतार्थकीर्तिरनुवादविरुद्धवादौ
 त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा-
 स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ १० ॥

 भूतार्थेति । भृतार्थकीर्तिः यथावस्थितार्थकीर्तनम् अनुवादोऽविरुद्धगुणारोपः, प्रमाणान्तरविरुद्धार्थकथनं विरुद्धवाद इति त्रेधार्थवादस्य गतयो मार्गाः । त्रयोऽपि रोचनार्था एव । तत्र तेषां मध्ये त्वत्तामसत्वादयो विरुद्धवादाः प्रमाणान्तरविरुद्धवचनानि ते च रोचनार्थाः । विष्णुरपि यत्प्रसादमपेक्षते[६], अहो गिरि-


  1. 'ता श्रीवेदव्या' क. ग. पाठः.
  2. 'णं' व्याख्यासम्मतः पाठः.
  3. 'नुसारेण प्रा' क. ग. पाठः.
  4. 'व विष्णोही' क. ग. पाठः.
  5. 'स्तुवीतैव व्यासः । किमर्थं हानिवचः कृतवान् इत्याशङ्कायामाह- क. ग. पाठः.
  6. 'वलम्बते' क. ग. पाठ:.