पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९०]
३०९
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।


 मूर्तित्रयेति । मूर्तित्रयातिगं चतुर्थं परमेश्वरं त्वां कलायसुषमं श्रीकृष्णमुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद, नान्यं शिवमि[१]त्यर्थः ॥ ६॥

 पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह-

समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ७ ॥

 समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठ[२]स्तु नहि लोक इति चेद् नैवमित्याह — त्रिमूर्तीति । मूर्तित्रययुक्तेभ्यः सत्यलोकस्थलोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तव वैकुण्ठलोक एवेति पुराणसंग्रहे कथितम् ॥ ७॥

यद् ब्राह्मकल्प इह भागवतद्वितीय-
 स्कन्धोदितं वपुरना[३]वृतमीश! धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
 श्रीमाधवः शिवपरोऽपि पुराणसारे ॥८॥

 यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः, तस्मिन् भगवता धात्रे[४] प्रत्यक्षीकृतं यद् वपुः, तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे धात्रे दर्शितस्य वपुषो न शिवमूर्तित्वमुक्तवान्[५], सर्वमयस्तु त्वमेवेति च त्वामेवोक्तवानित्यर्थः ॥ ८ ॥

 ननु

“गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्त्विकः । "
“तदधीनो हरिः साक्षाद्"


  1. 'म् ॥' क. ग. पाठ:.
  2. 'ट: शिवलो' ख. ग. पाठः.
  3. 'पा' क. घ. ङ. च. पाठः.
  4. 'त्रे ब्रह्मणे अनावृतं प्र' ग. पाठः.
  5. 'न् सर्वमूर्तित्वमेवोक्तवान्, स क. ग. पाठः.