पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
[स्कन्धः - ११
नारायणीये


इति । जन्मकर्माणि अवतारतच्चरितानि तन्निबन्धनानि नामानि च क्षेमाणि पुरुषार्थरूपाणि तदुपायभूतानीत्यर्थः । एतच्च जन्मादित्रयविशेषणम् । भूयः पुनः पुनर्गायन् कीर्तयन् । एतच्च स्मरणादीनामप्युपलक्षणम् । एवं साधनभक्त्यनुष्ठानेन सञ्जातप्रेमलक्षणभक्तेः संसारधर्मातीतां गतिमाह – तदुभयत इति । जन्मकर्मकीर्तनान्नामकीर्तनाञ्च हेतोरित्यर्थः । प्रद्रुतमतिशीघ्रं प्रद्रुतः द्रवीभूत आत्मा मनो यस्य स प्रद्रुतात्मा कदाचिद् उद्यद्धासः भक्तपराजितं भगवन्तमाकलय्य सहस्तताडनं हसतीत्यर्थः । कुहचिद् क्वचिद् रुदन्नपि एतावन्तं कालमुपेक्षितोऽस्मीति रोदिति, अथवा भगवति चित्तस्यानेकाग्रताखेदात् । यद्वा तद्रूपसाक्षात्काराद्धर्षाश्रूणि मुञ्चन्निति । क्वापि कदाचिद् गर्जन् अत्यौत्सुक्यादुच्चैशशब्दं कुर्वन् अतिहर्षेण प्रगायन् क्कचिञ्च जितं जितमिति प्रनृत्यन् प्रकर्षेण सहस्ततालं सशिरःकम्पं नर्तनं कुर्वन् । किं तर्हि भक्तोऽयमिति परान् प्रति[१] प्रकाशयितुमेतदिति चेद्, नेत्याह-उन्मादीवेति । ग्रहगृहीत इवेत्यर्थः । अयि भगवन्! मयि करुणां कुरु, येनाहमेवं लोकबाह्य[२]श्चरेयम् अलौकिको भूत्वा चरेयम् ॥ ५॥

भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन्
 मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।
त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदाढर्यं विराग-
 स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते ! यत्नभेदं विनैव ॥ ६ ॥

 भूतानीति। किञ्च भूतानि पृथिव्यादीनि पञ्चैता[३]नि । भूतात्मकं पाञ्चभौतिकं सकलं चराचरात्मकमपि पक्षिमत्स्यान् मृगादीन् जलस्थलाद्याश्रितान् मर्त्यान् मित्राणि शत्रूनपि बन्धुशत्रूदासीनांश्च त्वन्मयानि त्वद्रूपाणीति यमितमतिः एतानि सर्वाणि श्रीहरे रूपाणीति अनुसन्दधानः सन् आनमानि प्रणामं करवाणि। ननूक्तलक्षणा भक्तिर्योगिनामपि बहुजन्मसाध्या कथं भजनमात्रेणैकस्मिन् जन्मनि भवेदित्याशङ्कयाह ——– त्वत्सेवायां हि सिध्येदिति । सर्वकर्मणां समर्पणं,


  1. 'ति बोधयि' क. पाठ:.
  2. 'ह्य: अ' क. ग. पाठ:.
  3. 'नि दृष्टश्रुतानि । भू’ क. ग. पाठः.