पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
[स्कन्धः - १०
नारायणीये


 मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिर्मृगेन्द्रः मोक्तारमिव । तव पदं वैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाश्य स्थितवान् ॥५॥

भद्रं ते शाकुनेय ! भ्रमसि किमधुना त्वं[१] पिशाचस्य वाचा
 सन्देहक्ष्चेन्मदुक्तौ तव किमु न करोष्यगुलीमङ्ग ! मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
 भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ६ ॥

 भद्रमिति । छिन्नपातमपतत् छिन्नमूलतरुवत् पपात | परोपासितुरप्येवं त्वत्कृतो भ्रंशो भवति । शूलिनोऽपि गतिः शरणं च त्वं विष्णुरेव भवति ॥६॥

भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
 स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
 हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ७ ॥

 भृगुमिति। अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतप्रणामस्तदनादरादुदितः पुनश्च रुद्धो रोषो येन[२] तथाविधे सति विधौ हरे रुद्रेऽपि च भ्रातृस्नेहेन परिरम्भणारम्भे तदनादरजनितरुषा जिहिंसिषौ हन्तुमिच्छति सति गिरिजया धृते वारिते च सति वैकुण्ठमगात् ॥ ७ ॥

सप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
 विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य ! भवेत् सदा मे
 त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥८॥

 सुप्तमिति । त्वत्पादचिह्नं श्रीवत्साख्यम् ॥ ८॥


  1. 'किं' घ. पाठः.
  2. 'यस्य त' क. ग. पाठ.