मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिर्मृगेन्द्रः मोक्तारमिव । तव पदं वैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाश्य स्थितवान् ॥५॥
भद्रं ते शाकुनेय ! भ्रमसि किमधुना त्वं[१] पिशाचस्य वाचा |
भद्रमिति । छिन्नपातमपतत् छिन्नमूलतरुवत् पपात | परोपासितुरप्येवं त्वत्कृतो भ्रंशो भवति । शूलिनोऽपि गतिः शरणं च त्वं विष्णुरेव भवति ॥६॥
भृगुं किल सरस्वतीनिकटवासिनस्तापसा- |
भृगुमिति। अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतप्रणामस्तदनादरादुदितः पुनश्च रुद्धो रोषो येन[२] तथाविधे सति विधौ हरे रुद्रेऽपि च भ्रातृस्नेहेन परिरम्भणारम्भे तदनादरजनितरुषा जिहिंसिषौ हन्तुमिच्छति सति गिरिजया धृते वारिते च सति वैकुण्ठमगात् ॥ ७ ॥
सप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां |
सुप्तमिति । त्वत्पादचिह्नं श्रीवत्साख्यम् ॥ ८॥