पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८९]
३०३
वृकासुरवधवर्णनम् ।


भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
 स्पष्टं टकासुर उदाहरणं किलास्मिन् ॥ २ ॥

 सद्य इति । सद्यः अल्पाभ्यां गुणदोषाभ्यां, सद्यः प्रसादाः सद्योरुषिताश्च विधिशङ्करादयः । केचिद् निजगुणानुगुणं स्वस्ववासनानुसारेण तान् भजन्तः अनन्तरमशान्ततया तद्रोषेणैव भ्रष्टा भवन्ति । कष्टं बतेति खेदे | अदीर्घदृष्ट्या अतिचिरविष्णुभजनमान्द्यादेवान्यभजनमिति भावः । तदुक्तं -

"रागी स पुरुषोऽवश्यं फलं प्रेप्सति शङ्करात् ।
ततः फलं स लभते ततस्तं विस्मरिष्यति ॥

 इति । अस्मिन्नर्थे वृकासुर: स्पष्टम् अनुरूपम् उदाहरणम् ॥ २ ॥

शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् ।
सच दिदेश गिरीशमुपासितुं न तु भवन्तययन्धुमसाधुषु ॥ ३ ॥

 शकुनिज इति । स हि वृकासुरः त्वरिततोषं सद्यःप्रसादमधीश्वरमपृच्छत् ॥

तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने
 शिरश्छित्त्वा सद्यः पुरहरसुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
 जगन्नाथाद् वत्रे भवति विमुखानां क शुभधीः ॥ ४ ॥

 तप इति। उपस्थाप्य प्रत्यक्षीकृत्य | अतिक्षुद्रम् असारम् । रौद्रं क्रूरम् । भवति विष्णौ ॥ ४ ॥

मोक्तारं वन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं
 दैत्या[१]द् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्रीक्ष्य शर्वे
 दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ५ ॥


  1. 'त्यो भी' क. घ. ङ. च. पाठः.