सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
[स्कन्धः - १०
नारायणीये


आर्ति तीर्त्वा समस्तामृतपदमगु: सर्वतः सर्वलोकाः
 स त्वं विश्वार्तिशान्त्यै पवनपुरपते ! भक्तिपूर्त्यै च भूयाः ॥ १२ ॥

 सोऽयमिति । यत्र श्रीकृष्णे सौहार्दादिभिः योगभेदैः श्रीकृष्णे मनोनिवेशनोपायविशेषैः। तत्र सौहार्दात् पाण्डवादयः, भीत्या कंस:, स्नेहाद् यदवः, द्वेषात् शिशुपालादयः, अनुरागाद् गोप्यः । सर्वतः सर्वत्र । सर्वे लोकाः समस्तामाध्यात्मिकादिरूपाम् आर्ति पीडां तीर्त्वा अतिक्रम्य अमृतपदं मोक्षम् अगुः जग्मुः । विश्वार्तिशान्त्यै सकलपीडापहत्यै भक्तेः प्रारब्धायाः पूर्त्यै प्रवृद्धये च भूयाः ॥ १२ ॥

इत्यर्जुन गवपिनयनयवर्णतम् अष्टाशीतितमं दशकं सदिकम् ।


रमाजाने ! जाने यदिह तव भक्तेषु विभवो
 न *सम्पघः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्ति कृत्वैव प्रदिशसि ततः काममखिलं
 प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥१॥

 रमाजान इति । हे रमाजाने ! लक्ष्मीपते ! तव भक्तेषु विभवः फलं न सद्यः किञ्चिद् भजनमात्र एव सम्पद्यः परिणतो न भवति यत्, तद् मदकृत्त्वाद् विभवस्य मदजनकत्वादिति जाने । अतः अशमिनाम् अशान्तानां प्रशान्ति कृत्वैव कामम् अभीष्टमखिलं प्रदिशसि । प्रागेव प्रशान्तेषु तु क्षिप्रं प्रदिशसि । अतस्त्वदीये त्वद्भक्ते न खलु च्युतिकथा भ्रंशस्य कथा शब्दोऽपि नास्त्येव ॥ १ ॥

 विधिशङ्करादयस्तु न तथेत्याह

सद्य:प्रसादरुषितान् विधिशङ्करादीन
 केचिद् विभो ! निजगुणानुगुणं भजन्तः ।


 * सम्पद्यत इति सम्पद्यः। 'कृभ्वस्तियोगे सम्पयकर्तरि' (५. ४. ५०.) इत्यत्र कर्तृशप्रत्ययान्ततया निपातनात् साधुता ।