पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९०]
३०५
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।


निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
 सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत ! पुनश्च्युतिदोषहीनं
 सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ९ ॥

 निश्चित्येति । बद्धो भावो भक्तिर्येषाम् । सारस्वताः सरस्वतीतीरवासिनः ॥ ९॥

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
 स्तुतं विष्णो ! सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् ! पशुपवनिताभाग्यनिवहं
 परीतापश्रान्त्यै पवनपुरवासिन् ! परिभजे ॥ १० ॥

 जगदिति । निगमनिवहैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्ट्यादौ सगुणत्वेन स्तुतम् । सञ्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनितानां भाग्यं तत्फलं नितरां वहति प्रापयतीति तथा । यद्वा भाग्यानां निवहं श्रीकृ ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥

इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रेष्ठचवर्णनं च

एकोननवतितमं दशकम् ।


 ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादौ बहुशः श्रूयत इत्याशङ्कय परिहरति—

वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-
 ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् ! निष्कलार्वागभिन्नं
 किमपि यदवभातं तद्धि रूपं तवैव ॥ १ ॥