पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
[स्कन्धः - १०
नारायणीये


 वृकेति । मोहिनी विष्णुमाया । तव विष्णोर्महत्त्वं सर्वेषां शर्वादीनां देवानां जैत्रं न्यूनतापादकम् । तत्र वृकादिचतुर्णां चरितेषु शिवस्य जैत्रं त्वन्महत्त्वम्, इन्द्रयाग-नन्दहरण-बालानयन - अनलपान- वत्सस्तेयादिषु इन्द्रवरुणयमानलब्रह्मादिजैत्रं त्वन्महत्त्वमिति स्थितम् अत्रैव दृढीकृतम् । अत्र हेतु[१]:- परमात्मन्निति । निरुपाधिकपरमात्मत्वमेवोपपादयति – निष्कलेति । निष्कले परमात्मनि ततोऽर्वाक् सकलेषु ब्रह्मविष्णुगिरीशादिषु च यत् किमप्यभिन्नं रूपं परमात्मतत्त्वम् अवभातं, तदेव तब विष्णो रूपं तद्रूपं च तवैव, न [२]तेषाम् | हि यस्मादेवं विष्णोरवस्थाभेदा गिरिशादयः, तस्मात् त्रिमूर्तिषु विष्णोरेव महत्त्वमुक्तमित्यर्थः । तदुक्तं श्रीभागवते -

“ सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चहरेरोत संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥"

 इति ॥ १ ॥            (स्क. १. अ. २. क्ष्लो. २३)

 ननु

“एवमेको महादेवो मायया गुणरूपया ।
नामरूपक्रियाभेदैर्भिन्नवत् प्रतिभासते ॥ "

इति वचनात् शिवस्यैवावस्थाभेदो मूर्तित्रयप्राधान्यं चेत्याशङ्कय संज्ञाभेद ए[३]वायं,

 न संज्ञिनि वस्तुस्वरूप इति परिहरति----

मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
 प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
 त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ २ ॥

 मूर्तित्रयेति। ब्रह्मविष्णुगिरिशेश्वरसदाशिवाख्यमूर्तिभेदेन पञ्चात्मकः शिव इति यत् प्राहुः शैवाः, तत्र शैवानां पक्षे यः सदाशिव [४] शब्दवाच्यः, सोऽस्मिन्


  1. 'तुत्वेन सम्बोधयति- हे परमात्मन् ! । नि' क. ग. पाठ:.
  2. ' तु ब्रह्मगिरिशादे: । हि' क. ग. पाठः.
  3. 'यं विवादो, न’ क. ग. पाठः.
  4. 'ववा' ख. पाठः.