पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
[स्कन्धः - १०
नारायणीये


ततो मगधभूभृता चिरनिरोधसंक्लेशितं
 शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुष प्राहिणो-
 दयाचत स मागधक्षपणमेव किं भूयसा ॥ १ ॥

 तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरोधेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वयं । ते तुभ्यम् । सः दूतः । किं भूयसा विज्ञापनेन[१] । मागधक्षपणं जरासन्धवधमेवायाचत ॥ १ ॥

यियासुरभिमागधं तदनु नारदोदीरिताद्
 युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
 शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ २ ॥

 यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः । उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभय कार्यपर्याकुलः विरुद्धजयिनः शत्रुनिग्रहपूर्वकं कर्तव्याद् अध्वराद् राजसूयाख्याद् उभयसिद्धिः मागधनिग्रहयुधिष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तवति सति यौधिष्ठिरीं पुरम् इन्द्रप्रस्थम् इयेथ गतवान्[२] ॥ २ ॥

अशेषदयितायुते त्वयि समागते धर्मजो
 विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
 भवन्तमयि ! मागधे प्रहितवान् सभीमार्जुनम् ॥ ३ ॥

 अशेषेति । त्वायि अशेषदयितायुते षोडशसहसपत्नीयुते समागते सति धर्मजः भवदपाङ्गेन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्स्नां विजित्य निरुपमां श्रियं दिग्वि[३]जये लब्धं धनसञ्चयं वहन् अयि ! भगवन् ! अहह आश्चर्यमेतत् भक्तदासायितं भक्तदासवदाच[४]रन्तं मागधे[५] जरासन्धे तज्जयार्थं प्रहितवान् ॥ ३ ॥


  1. 'नेति मा' क. ग. पाठः.
  2. 'नसि ॥' क. ग. पाठः.
  3. 'ग्जयल' क. पाठः.
  4. ‘रितं भवन्तं' क ग. पाठः.
  5. 'न्भवधार्थ' क. पाठः.