ततो मगधभूभृता चिरनिरोधसंक्लेशितं |
तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरोधेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वयं । ते तुभ्यम् । सः दूतः । किं भूयसा विज्ञापनेन[१] । मागधक्षपणं जरासन्धवधमेवायाचत ॥ १ ॥
यियासुरभिमागधं तदनु नारदोदीरिताद् |
यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः । उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभय कार्यपर्याकुलः विरुद्धजयिनः शत्रुनिग्रहपूर्वकं कर्तव्याद् अध्वराद् राजसूयाख्याद् उभयसिद्धिः मागधनिग्रहयुधिष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तवति सति यौधिष्ठिरीं पुरम् इन्द्रप्रस्थम् इयेथ गतवान्[२] ॥ २ ॥
अशेषदयितायुते त्वयि समागते धर्मजो |
अशेषेति । त्वायि अशेषदयितायुते षोडशसहसपत्नीयुते समागते सति धर्मजः भवदपाङ्गेन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्स्नां विजित्य निरुपमां श्रियं दिग्वि[३]जये लब्धं धनसञ्चयं वहन् अयि ! भगवन् ! अहह आश्चर्यमेतत् भक्तदासायितं भक्तदासवदाच[४]रन्तं मागधे[५] जरासन्धे तज्जयार्थं प्रहितवान् ॥ ३ ॥