पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८५]
२८९
जरासन्धवधवर्णनम् ।


गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो
 ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
 निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ४ ॥

 गिरिव्रजेति । गिरिव्रजपुरं जरासन्धनगरी गताः समरोत्सवं द्र[१]ष्ट्टजनकौतुकजनकं द्वन्द्वयुद्धं ययाच प्रार्थितवन्तः । अपूर्णसुक्कृतमिति । यद्यपि मृतिसमये त्वदर्शनावकाशः सुकृतेन, तथापि सद्योमुक्तिप्रदत्वत्कर्तृकवधसुकृतहीनमित्यर्थः । अतः पवनजेन संग्रामयन् युद्धं कारयन् राजानौ भीममागधौ, अथवा पाण्डवदुर्योधनतत्पक्षीयान् राज्ञोऽन्योन्यं योधितवानिति राजयुध्वा त्वम् ॥ ४ ॥

अशान्तसमरोद्धतं विटपपाटनासंज्ञया
 निपात्य जरसः सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन् मुदा समनुगृह्य भक्ति परां
 दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ५ ॥

 अशान्तेति । अशान्ते अदृष्टान्यतरजयपराजये समरे उद्धतम् अहङ्कृतं जरसः सुतं जरानाम्न्या पिशाच्या जातमात्र एव धान्या व्यक्तं देहशकलद्वयं संयोज्य सञ्जातचेतनतया पुत्रत्वेन परिगृहीतम् । एवञ्च देहशकलयोद्वैधीभाव एवास्य मृतिः । एतद् विद्वांस्त्वं विटपपाटनारूपया संज्ञया ज्ञापकेन ज्ञाततत्त्वेन पवनजेन निष्पाटितं विदारितशरीरं कृत्वा निपात्य घातयित्वा तेन दिग्जये गृहीत्वा गिरिदर्या निरुद्धान् नृपतीन् विमुच्य तेभ्यो मुदा परां प्रेमलक्षणां भक्तिं समनुगृह्य निजराज्यभोगे गतस्पृहानपि भुवो धर्मेण गुप्त्यै दिदेशिथ प्रेषयामासिथ । अथवा राज्ञां प्रजापालनरूपस्य स्वधर्मस्य गुप्त्यै भुवः स्वस्वविषयान् दिदेशिथ दत्तवान् ॥ ५ ॥

प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
 प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।


  1. 'ष्ट्टकौ' क. ग. पाठः.