पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
[स्कन्धः - १०
नारायणीये


त्वमप्यायि जगत्पते! द्विजपदावनेजादिकं
 चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ६ ॥

 प्रचक्रुषीति । प्रचक्रुषि प्रारब्धवति । अभृतका भृतका दासा भवन्तीति भृतकीभवन्तः, प्रसन्नैः अनसूयकैः भृतकीभवद्भिः सकलै राजकैर्व्याकुलम् ॥ ६ ॥

ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
 विचार्य सहदेववागनुगतः स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
 तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥ ७ ॥

 तत इति । भगवान् श्रीकृष्णोऽग्रपूजामर्हतीति सहदेवस्य वाचमनुगतः अनुसृतः विश्वभूतात्मने सर्वभूतानामात्मभूताय अग्र्यपूजाविधिं व्यधत्त । अतः ससुरमानुषं चराचरात्मकं भुवनमेव तृप्तिं दधौ ॥ ७ ॥

ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
 सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्रमन्नासना-
 दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८ ॥

 तत इति । चेदिपः शिशुपालः । सभाजयति पूजयति । पशुपदुर्दुरूटं पशुपापशदम् । त्वयि त्वद्विषये दुर्वचोविततिं यथा कश्चिन्मुमूर्षुर्भुक्तं सर्वमुद्रमति, तथोद्वमन् जल्पन् उदायुधः उद्धृतायुधः आसनादुदापतद् उत्थायाभ्ययात् । तदा त्वत्परिभवेन पाण्डवाः अमुं समपतन् हन्तुमुद्यताः ॥ ८ ॥

निवार्य निजपक्षगानभिमुखस्य विद्वेषिण-
 स्त्वमेव "जहिषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी-
 स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ९ ॥


 * हकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।