पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८४]
१८७
समन्तपञ्चकयात्रावर्णनम् ।


तो भवदुपदेशात् परं तु भवद्विचिन्ता परमसुखैक्यमयी परमानन्दैकरसरूपा समभवत् ॥ ८ ॥

मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ ९ ॥

 मुनिवरेति । अथ तव पित्रा[१] वसुदेवेन दुरितशमाय दुष्क[२]र्मनिवृत्तये[३] अनुष्ठेयानि शुभकर्माणि पृच्छयमानैरनुयुज्यमानैर्मुनिवरनिवहैर्व्यासनारदादिभिस्त्वयि सकलशुभास्पदे पुत्रे सत्य[४]प्यस्य शुभान्तरैः कर्मादिभिः किमिदं दुरितशमनप्रार्थनमित्युरुहसितैरपि तथापि तदासौ वसुदेवो याजितः यजनं कारितः ॥ ९ ॥

सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ १० ॥

 सुमहतीति । सुमहति उत्तमकल्पके[५] यजने वितायमाने क्रियमाणे सति । प्रमुदिता मित्रजना बन्धुवर्गा यस्मिन्[६] तस्मिन् तैः सहैव नन्दादयो गोपा यदुजनैर्महिताः सम्मानिताः अद्य श्व इति त्रिमासमात्रं भवदनुषङ्गरसं भवत्सङ्गमसुखं पुरा नन्दवज इव भेजुः अन्वभूवन् ॥ १० ॥

व्यपगमसमये समेत्य राधां दृढमुपगृह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर ! पाहि मां गदेभ्यः ॥ ११ ॥

 व्यपगमसमय इति । व्यपगमसमये वियोगकाले प्रस्थाने राधां समेत्य दृढमुपगूह्य वीतखेदां तदनुग्रहरूपोपगूहने[७]नैव त्यक्तविरहव्यथां निरीक्ष्य प्रमुदितहृदयः पुरं द्वारवतीं प्रयातः । अतस्तादृशभक्तवात्सल्ययुक्तस्त्वं मां गदेभ्यः पाहि ॥ ११ ॥

इति समन्तपञ्चकयात्रावर्णनं चतुरशीतितमं दशकं सैकम् ।



  1. 'त्रा दु' क. पाठः.
  2. 'ध्कृतनि' क. पाठ:.
  3. 'ये सक' ख. पाठः.
  4. 'त्यस्य' क. ग. पाठः.
  5. 'के सहै' ख. पाठः.
  6. 'नू तैः' क. पाठः.
  7. 'ने' ख. पाठः.