पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
[स्कन्धः - १०
नारायणीये


 तदन्विति । चिरतरविरहेण आतुराः अङ्गरेखाः कृशशरीराणि यासां ताः । अन्वयासी: अनुगतः ॥ ४ ॥

सपदि च भनदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ५ ॥

 सपदीति । प्रमुषितो मानो यस्मिन् तादृशं हृद् यासाम् । अतिरसेन अतिशयितेनान्योन्यानुरागेण परिमुक्ता यथाकथञ्चिदपनीता कञ्चुलीका गात्रिका यस्मात् । परिचयहृद्यतरे प्रागनुभूतस्य प्रत्यभिज्ञायमानतया कौतुकविशेषजनके कुचे न्यळैषीः क्षीरनीराख्यपरिरम्भणसुखमन्वभूः ॥ ५ ॥

रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।
इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ ६ ॥

 रिपुजनकलहैरिति । मे मम पुनः पुनः समुपगतै रिपुजनकलहैः इयती अतिमहती विलम्बना कालक्षेपोऽभूदिति वचनपुरस्सरं कृतपरिरम्भणे त्वयि द्रागतिविवशा झटिति त्यक्तमाना निलिल्ये त्वदैक्यमिवान्वभूत् ॥ ६ ॥

अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्ववोधम् ।
परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेवं चेतसीति ॥ ७ ॥

 अपगतेति । तदा रहसि ताः परिरम्भणादिभिरपगतविरहव्यथा विधाय अहं परमसुखचिदात्मकः परमानन्दबोधस्वरूपः सर्वेषामात्मान्तर्यामी च अतो वो मद्विरहः शोकावकाशश्च परमार्थतो नास्त्येवेति वश्चेतसि स्फुटमुदयतु निश्चयात्मिका बुद्धिर्मदनुग्रहात् स्यादेवेति तत्त्वबोधं ददाथ ॥ ७ ॥

सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां परमसुखैक्यमयी भवाद्विचिन्ता ॥ ८ ॥

 सुखरसेति । तासां गोपस्त्रीणां पुरा उद्धवोपदेशैः उद्भवमुखेन कृतैरुपदेशै : सुखरसेनाल्पीयसा परिमिश्रितो वियोगो विरहदुःखं किमपि किञ्चिदभवत् । अमु-