पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८४]
२८५
समन्तपञ्चकयात्रात्रर्णनम् ।


तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विंति सान्त्वनार्थी यातः तेषामधिक्षेपवाक्यैर्जातेन रोषेणोद्धृतं करिनगरं हस्तिनपुरं येन सः रामः साम्बं मोचयामास । तदानीम् अग्रजपरिभवे त्वं यदुटतनां नामुचः ते पाण्डवेयैर्घात्या इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥

इति पौण्ड्रकवधवर्णनं काशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं च

त्र्यशीतितमं दशकम् ।


क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।
यदुकुलमहिलावृत: सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १ ॥

 क्वचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माणमनिरुद्धं च निदधद् रक्षणार्थे निक्षिप्य ॥ १ ॥

बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ २ ॥

 बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्वमुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परिमुक्तो दत्तो वित्तराशिर्येन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ॥२॥

तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतित्रकारैरतिमुमुदे सममन्वयामिनीभिः ॥ ३ ॥

 तवेति । द्रुपदसुता तव दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः स्वइयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यभामिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥

तदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ४ ॥