पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
[स्कन्घ:- १०
नारायणीये


अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
 हा हेति विद्रुतवती खलु[१] घोरकृत्या ।
रोषात् मुदक्षिणमदक्षिणचेष्टितं तं
 पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥ ८ ॥

 अभ्यापततीति । अमितम् अपरिच्छिन्नं धाम तेजो यस्य, परिमितधाम्नामग्न्यादितेजसामपि तेज:प्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्वधाम्नां च धाम' इति वचनात् तस्मिन् भवन्महास्त्रे सुदर्शना [२] ख्ये अभ्यापतति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिणचेष्टितं सुदक्षिणं रोषात् पुप्लोष । काशिपुरीं सुदक्षिणराजधानीमपि अधाक्षीद् ददाह ॥ ८ ॥

स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
 तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
नरकसचिवो देशक्लेशं सृजन् नगरान्तिके
 झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ ९॥

 स खल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृतिं प्राप्तुं खलतां तव वैरितां गतः नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पादयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः ॥९॥

साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
 यातस्तद्वाक्यरोषोद्घृतकरिनगरो मोचयामास रामः ।
ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
 तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ॥ १० ॥

 साम्बमिति । कौरव्यपुत्रीं सुयोधनसुतां लक्ष[३]णां साम्बः स्वयंवरे हृतवान् ।


  1. 'किलं' क. पाठः.
  2. 'ने अ' क. ग. पाठः.
  3. 'क्ष्म' के. पाठः.