पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८३]
२८३
काशीपुरदाहवर्णनम् ।


शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
 तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ४ ॥

 कालायसमिति ।कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः अस्य पौण्ड्रकस्य । कालानलोत्करकिरेण संहारकार्य[१]ङ्गारवर्षिणा । चकर्तिथ कृत्तबान् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥

जाड्येन बालकगिरापि किलाहमेव
 श्रीवासुदेव इति रूढमतिश्चिरं सः ।
सायुज्यमेव भवदैक्यधिया गतोऽभूत्
 को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ५ ॥

 जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दधियां वाचा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥

काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः
 शर्वं प्रपूज्य भवते विहिताभिचारः ।
कृत्यानलं कमपि बाणरणातिभीतै-
 र्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ ६ ॥

 काशीश्वरस्येति । कथञ्चन वृतैः भूतैः समं सह कृत्यानलम् आभिचारकुण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥

तालप्रमाणचरणामखिलं दहन्तीं
 कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।
घूतोत्सवे किमपि नो चलितो विभो! त्वं
 पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ ७ ॥

 तालप्रमाणेति । पौरैः कथितो विज्ञापितोऽपि घूतोत्सवे घतक्रीडाकौतुके नो चलितः न विमुखो जातः, किन्तु पार्श्वस्थं चक्रं हस्तसंज्ञया विसर्जिथ ॥७॥


  1. 'र्यनलोत्कर' क. पाठः.