पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
[स्कन्धः - १०
नारायणीये


रामेऽथ गोकुलगते ममदाप्रसक्ते
 हूतानुपेतयमुनादमने मदान्धे ।
स्वैरं समारमति सेवकवादमूढो
 दूतं न्ययुङ्क्त तव पौण्डकवासुदेवः ॥ १ ॥

 राम इति । प्रमदासु गोपीषु प्रसक्ते[१] लोले । हूताम् आहूतां तथाप्यनुपेतामनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति सति त्वं जगदीश्वर इति सेवकवादैर्मूढ: पौण्ड्रकवासुदेवः तव दूतं न्ययुङ्क्त नि[२]युक्तवान् ॥ १ ॥

नारायणोऽहमवतीर्ण इहास्मि भूमौ
 धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां
 दूतो जगाद सकलैर्हसितः सभायाम् ॥ २ ॥

 नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से किल, तान्युत्सृज्य मां शरणं व्रजेति सभायां जगाद ॥ २ ॥

दूतेऽथ यातवति यादवसैनिकस्त्वं
 यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृताङ्कमनल्पमूल्य-
 श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ ३ ॥

 दूत इति । यादवाः सैनिका यस्य स त्वं काशीं यातः पौण्ड्रकीयं वपुर्ददर्शिथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साङ्को यस्य । अनल्पमूल्यः अनल्पेन मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३ ॥

कालायसं निजसुदर्शनमस्यतोऽस्य
 कालानलोत्करकिरेण सुदर्शनेन ।


  1. 'ते भोगलो' क.ग. पाठ:.
  2. इदं पदं क. ग. पुस्तकयोर्न दृश्यते ।