पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८२]
२८१
नृगस्य शापमोक्षवर्णनम् ।



बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद् वितन्वन्
 निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
तद्वाचा शिष्टवाहूद्वितयमुभयतो निर्भयं तत्प्रियं तं
 मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्धः सहोषः ॥ ८ ॥

 बाणमिति । दर्प[१] एक एव दोषः तस्माद् निर्लनाः छिन्ना: अशेषा दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुधुषा आत्मानं विष्णुमप्येकमधिजग्मुषा उपगीतः स्तुतः । तस्य श्रीशङ्करस्य वाचा । उभयतो विष्णुशङ्करयोरपि निर्भयं तत्प्रियं शिवभक्तम् । तद्दत्तमानः बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८ ॥

मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
 यमं वालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे
 विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ९ ॥

 मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहादौ शक्रमजयः । तत् तस्मात् ते तव अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा । अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९ ॥

द्विजरुषा कुकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर! पाहि माम् ॥१०॥

 द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुषा तत्कार्येण शापेन निरुदककूपस्थं कृकलासवपुर्धरं[२] नृगनृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन्। न विद्यतें उत्तमो य (स्मादि ? स्या इ)त्यनुत्तमाम् | नृगस्य ब्राह्मणगवापहरणेन कुकलासत्वापत्तेस्तद्दानमाहात्म्येन स्वर्गप्राप्तेश्च नृगमुखेन निवेदन पुरस्सरमुपदिशन् ॥ १० ॥

इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापमोक्षवर्णनं च

व्घशीतितमं दशकम् ।



+ चत्वारोऽस्य ब्राहवः शिष्टा इति उभयत इत्यस्य पूर्वत्रैवान्वयो युज्यते ।


  1. 'र्प एव' क. पाठः.
  2. 'रं त्रि' क. ग. पाठः.