बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद् वितन्वन् |
बाणमिति । दर्प[१] एक एव दोषः तस्माद् निर्लनाः छिन्ना: अशेषा दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुधुषा आत्मानं विष्णुमप्येकमधिजग्मुषा उपगीतः स्तुतः । तस्य श्रीशङ्करस्य वाचा । उभयतो विष्णुशङ्करयोरपि निर्भयं तत्प्रियं शिवभक्तम् । तद्दत्तमानः बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८ ॥
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे |
मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहादौ शक्रमजयः । तत् तस्मात् ते तव अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा । अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९ ॥
द्विजरुषा कुकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । |
द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुषा तत्कार्येण शापेन निरुदककूपस्थं कृकलासवपुर्धरं[२] नृगनृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन्। न विद्यतें उत्तमो य (स्मादि ? स्या इ)त्यनुत्तमाम् | नृगस्य ब्राह्मणगवापहरणेन कुकलासत्वापत्तेस्तद्दानमाहात्म्येन स्वर्गप्राप्तेश्च नृगमुखेन निवेदन पुरस्सरमुपदिशन् ॥ १० ॥
इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापमोक्षवर्णनं च
व्घशीतितमं दशकम् ।
+ चत्वारोऽस्य ब्राहवः शिष्टा इति उभयत इत्यस्य पूर्वत्रैवान्वयो युज्यते ।