तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विंति सान्त्वनार्थी यातः
तेषामधिक्षेपवाक्यैर्जातेन रोषेणोद्धृतं करिनगरं हस्तिनपुरं येन सः रामः साम्बं
मोचयामास । तदानीम् अग्रजपरिभवे
त्वं यदुटतनां नामुचः ते पाण्डवेयैर्घात्या
इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥
इति पौण्ड्रकवधवर्णनं काशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं च
त्र्यशीतितमं दशकम् ।
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू । |
क्वचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माणमनिरुद्धं च निदधद् रक्षणार्थे निक्षिप्य ॥ १ ॥
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये । |
बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्वमुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परिमुक्तो दत्तो वित्तराशिर्येन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ॥२॥
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । |
तवेति । द्रुपदसुता तव दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः स्वइयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यभामिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥
तदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । |