पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८१]
२७७
नरकासुरवधादिवर्णनम् ।


 पार्थाद्यैरिति । पार्थाघैः भीमदुर्योधनमागधादिभिरण्यकृतलवनम् अशक्यच्छेदनं तोयमात्रे केवलं [१] जले प्रतिबिम्वरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् । अवृथाः वृतवान् ॥ ५ ॥

स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
 वहन्नङ्के भामामुपवनमिवारातिनगरम् ।
विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसै:
 पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपुरम् ॥ ६ ॥

 स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम्। अरातेर्भौमस्य नगरम् । दुर्गाणि गिरिशस्त्रजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां पृतनानां शोणितरसैः रुधिरद्रवैः प्राग्ज्योतिषाख्यं पुरं शोणितं रक्तवर्णमकुरुथाः ॥ ६ ॥

मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
 स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं
 रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णनरकम् ॥ ७ ॥

 मुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् । सः मुरः भवता चक्रेण प्रदलितशिराश्चक्रे कृतः । इन्धाने प्रवृद्धे समरे नरकं भौमं तीर्णनरकं संसारोत्तीर्णम् ॥ ७ ॥

स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
 गजं चैकं दत्त्वा प्रजिघयिथ नागान् निजपुरीम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः
 सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८ ॥

 स्तुत इति । खलेन भौमेन आवद्धानां स्त्रीणां षोडशसहस्त्राणि विपुलं धनराशिं चतुर्दन्तान् नागानपि च निजपुरीं प्रजिघयिथ प्राहिणोः ॥ ८ ॥


  1. 'लज' क. पाठः.