पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
[स्कन्धः - १०
नारायणीये


तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
 शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ २ ॥

 भद्रामिति । भद्रां सुभद्रां भवतोऽवरजां कनीयसीम् । कुहनामस्करी कपटयतिः । तत्र सुभद्राहरणे । तेन अर्जुनेन सार्धम् । प्रत्यगाः गतवान् ॥ २ ॥

तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
 तां कालिन्दी नगरमगम: खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं
 राज्ञां मध्ये सपादि जद्दिषे मित्रविन्दामवन्तीम् ॥ ३ ॥

 तत्रेति । तत्र शक्रप्रस्थे क्रीडन् अर्जुनेन सह मृगयां गच्छन् तां सूर्यपुत्रीं कालिन्दीम् । तदैव खाण्डवेन प्रीणितस्तर्पितोऽग्निर्येन । भ्रातृभ्यां विन्दानुविन्दाभ्यां तद्वरणप्रतिषेधात् त्रस्तां राज्ञां मध्ये स्वयंवरे ज ( हृ? हि) षे हृतवान् ॥ ३ ॥

सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
 बद्ध्वा सप्तापि च वृषवरान् सप्तमृर्तिर्निमेषात् ।
भद्रां नाम मददुरथ ते देव! सन्तर्दनाद्या-
 स्तत्सोद [१]र्या वरद! भवतः सापि पैतृष्वसेयी ॥ ४ ॥

 सत्यामिति । पुनर्नग्नजिन्नृपते राजधानीं गत्वा आत्मानं सप्तधा कृत्वा सप्त वृषवरान् बद्ध्वा तन्नन्दनां सत्याम् उदवहः । तत्सोदर्यां सन्तर्दनादिसोदरीं श्रुतकीर्तेः सुतां भद्रां ते तत्सोदराः ते तुभ्यं प्रददुः । पैतृष्वसेयी वपुदेवसोदर्या: पुत्री ॥ ४ ॥

पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
 लक्षं छित्वा शफरमवृथा लक्ष [२]णां मद्रकन्याम् -
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
 शुश्रोथ त्वं सुरपतिगिरा भौमदुक्ष्चेष्टितानि ॥ ५ ॥


 + हकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।


  1. 'र्या' घ. ङ. च. पाठः.
  2. 'क्ष्म' घ. पाठ:.