पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
[स्कन्ध: - १०
नारायणीये

भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
 शक्राद्यैर्महितः समं दयितया घुस्त्रीषु दत्तहिया ।
हृत्वा कल्पतरु रुषाभिपतितं जित्वेन्द्रमभ्यागम-
 स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ९॥

 भौमापाहृतकुण्डलमिति । भौमेनेन्द्रादपहृतं कुण्डलम् अदितेस्तन्मात्रे दातुम् । घुस्त्रीषु शच्युर्वश्यादिषु रूपातिशयेन दत्ता ह्रीर्यया तथा दयितया समं सह महितः पूजितः । तत् पारिजातहरणेनेन्द्रस्य परिभवजननं श्रीमददोष ईदृशो यथेन्द्रस्येति व्याख्यातुं प्रकाशयितुमेवाकृथाः कृतवान् ॥ ९ ॥

कल्पद्रुं सत्यभामाभवनभुवि सृजन् व्घष्टसाहस्रयोषाः
 स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
 भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ! ॥१०॥

 कल्पद्रुमिति । सत्यभामाया भवनभुवि गृहोद्याने सृजन् स्थापयन् प्रत्यगारं विहितबहुवपुः भवनं प्रति भवनं प्रति रूपभेदेन स्थित्वा व्धष्टसाहस्रयोषाः युगपत् स्वीकृत्य परिणीय आश्चर्यात् तदाश्चर्य श्रुत्वा नारदेनालोकिता विविधा गतयो गार्हस्थ्यभेदा यस्य ॥ १० ॥

इति सुभद्राहरणवर्णनं श्रीकृष्णस्य महिष्यन्तरपरिग्रहवर्णनं

नरकासुरवधादिवर्णनं च

एकाशीतितमं दशकम् ।


प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
 हत्वा रत्या सहाप्तो निजपुरमहरद् रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद् रोचनां रुक्मिपौत्रीं
 तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि घूतवैरात् ॥ १ ॥