पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
बाणासुरयुद्धवर्णनम् ।


 प्रघुम्न इति । तव कला विष्ण्वंशः तं शम्बरं हत्वा रत्या भार्यया सह निजपुरमाप्तः प्रघुम्नो रुक्मिकन्यां रुक्मवतीम् अवहद् उपयेमे । तत्रानिरुद्धोद्वाहे घूतवैरात् छलेन बलभद्रे पराजयमारोप्याधिक्षेपाद् मुसलिना रुक्मी न्यवधि हतः। अपिशब्देन कालिङ्गस्य दन्ताः पाटिता इत्यप्युक्तम् ॥ १ ॥

वाणस्य सा वलिमुतस्य सहस्रवाहो-
 र्माहेश्वरस्य महिता दुहिता किलोपा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्व
 स्वप्नेऽनुभूय भगवन् ! विरहातुराभूत् ॥ २ ॥

 बाणस्येति । माहेश्वरस्य शिवभक्तस्य । महिता क्ष्लाघ्या ॥ २ ॥

योगिन्यतीव कुशला खलु चित्रलेखा
 तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुपया विदितं निशाया-
 मानेष्ट योगवलतो भवतो निकेतात् ॥ ३ ॥

 योगीति । योगिनी अणिमाद्यष्ठैश्वर्यवती अतीव कुशला चित्रकर्मादिकलाकौशलवती च । तत्र विलिखितेषु तथा विदितम् अयमेव स्वप्नदृष्ट इति, अनिरुद्धं भवतो निकेताद् द्वारकायाः आनेष्ट आनीतवती ॥ ३ ॥

कन्यापुरे दयितया सुखमारमन्तं
 चैनं कथञ्चन बबन्धुपि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषै-
 स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ४ ॥

 कन्यापुर इति । दयितया उषया समम् आरमन्तं क्रीडन्तम् । एनम् अनिरुद्धं शर्वबन्धौ बाणे बबन्धुषि नागपाशेन बद्धं कुर्वति सति श्रीनारदोक्तात् तदुदन्ताद् अनिरुद्धबन्धनरूपाद् वृत्तान्ताद् दुरन्तोऽनवधी रोषो येषां तैर्यदुभिः सह त्वं तस्य बाणस्य शोणिता [१]ख्यं नगरं न्यरुन्धाः आवृणोः ॥ ४ ॥


  1. 'तपुराख्यं' क. ख. पाठः.