पार्थाद्यैरिति । पार्थाघैः भीमदुर्योधनमागधादिभिरण्यकृतलवनम् अशक्यच्छेदनं तोयमात्रे केवलं [१] जले प्रतिबिम्वरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् । अवृथाः वृतवान् ॥ ५ ॥
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो |
स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम्। अरातेर्भौमस्य नगरम् । दुर्गाणि गिरिशस्त्रजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां पृतनानां शोणितरसैः रुधिरद्रवैः प्राग्ज्योतिषाख्यं पुरं शोणितं रक्तवर्णमकुरुथाः ॥ ६ ॥
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् |
मुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् । सः मुरः भवता चक्रेण प्रदलितशिराश्चक्रे कृतः । इन्धाने प्रवृद्धे समरे नरकं भौमं तीर्णनरकं संसारोत्तीर्णम् ॥ ७ ॥
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये |
स्तुत इति । खलेन भौमेन आवद्धानां स्त्रीणां षोडशसहस्त्राणि विपुलं धनराशिं चतुर्दन्तान् नागानपि च निजपुरीं प्रजिघयिथ प्राहिणोः ॥ ८ ॥
- ↑ 'लज' क. पाठः.