पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ७७]
२६५
जरासन्धादियुद्धवर्णनम् ।


विघाताज्जामातुः परमसुहृदो भोजनृपते-
 र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम्।
रथाद्यैर्द्यौलब्धैः कतिपयबलस्त्वं वलयुत-
 स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहथाः ॥ ६ ॥

 विघातादिति । जरासन्धस्य जामाता कंसः, तत्पुत्र्योरस्तिप्रास्त्योः पतित्वात्, तस्य भोजनृपते[१]र्वधाद् अनवधिरुषान्धे जरासन्धे मथुरां रुन्धति सति द्योः स्वर्गाल्लब्धैर्मातलिनानीतै रथाद्यैः सपरिकरैः कतिपयबल: परिमितसेनासहितः तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहथाः सञ्जहर्थ ॥ ६ ॥

बद्धं बलादथ वलेन बलोत्तरं त्वं
 भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
 कोऽन्यस्ततो हि वळपौरुषवांस्तदानीम् ॥ ७ ॥

 बद्धमिति । अथ बलेन बलाडू बद्धं बलेन उत्तरम् उत्कृष्टं भूयो बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाह - निश्शेषदिग्जये समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७॥

 भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो

 युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणी: शिव शिवास्य जघन्थ विष्णो!
 सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ८ ॥

 भग्न इति ।[२] जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८ ॥

अष्टादशेऽस्य समरे समुपेयुषि त्वं
 दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोठ्या ।


  1. 'र्विघाताद्वधा' क. ग. पाठः.
  2. इदं क. ग. पुस्तकयोर्न दृश्यते.