त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये |
अष्टादश इति । अस्याष्टादशे समरे समुपेयुषि *आगामिनि सति त्वं यवनानां म्लेच्छानां त्रिकोट्या युतं यवनं पुरतो दृष्ट्वा त्वष्ट्रा विश्वकर्मणा पयोधिमध्ये आशु द्वारवत्याख्यं पुरं विधाप्य कारयित्वा योगबलतः योगैश्वर्येण तत्र वजनाननैषीः ॥ ९ ॥
पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो |
पद्भ्यामिति । त्वया वधः सुकृतैकलभ्यः तद्विहीनेन । शैले तद्गुहायां देवदत्तया निद्रया चिरं सुप्तेन यवनेन कृष्णोऽयमिति भ्रान्त्या अचाहतेन मुचुकुन्देनास्मिन् यवने भस्मीकृते तस्मै मुचुकुन्दाय तस्थिषे आत्मानं प्रकाश्य स्थितवान[१]सि ॥ १० ॥
ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी |
ऐक्ष्वाक इति । ऐक्ष्वाकः इक्ष्वाकुवंशजः अखिलनृपसुखे राज्यभोगे विरक्तः । आशु समनन्तरब्राह्मणजन्मान्ते धुतसकलमलम् अज्ञानकल्पितसंसारनिवृत्तिरूपं मोक्षं तावत्कालपर्यन्तं मुक्तेस्तुल्यां निरतिशयसुखरूपां प्रेमलक्षणां भक्तिमपि दत्त्वां क्षात्रधर्मेण कृताया हिंसाया विशुघ्घै तपः कार्यमिति च तदा प्रात्थ अब्रवीः । यद्यपि त्वद्दर्शनादेव कृतकृत्यो मुचुकुन्दः, तथापि लोकप्रतीत्यै, क्षत्रधर्म लोकान् ग्राहयितुमिदमात्थेत्यर्थः ॥ ११ ॥
* आर्थिकार्थकथनमिदम् ।
- ↑ 'नू ॥ ' ख. पाठः.