पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७८]
२६७
द्वारकावासवर्णनम् ।


तदनु मथुरां गत्वा हत्वा चमूं यवनाहुतां
 मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दपीयास्मै प्रदाय पलायितो
 जलधिनगरी यातो बातालयेश्वर! पाहि माम् ॥ १२ ॥

 तदन्विति । द्वारकां व्रजन् मार्गे मगधपतिना जरासन्धेन पुरा यथा, तथा निवारितः चरमविजयम् अष्टादशसङ्ग्रामजयं दर्पाय अहङ्कारमुत्पादयितुं प्रदाय पलायितो धावन् प्रवर्षणाख्यं गिरिमारुह्य तस्मादुत्पत्य भुवि पतित्वा जरासन्धेनालक्षितो जलधिनगरी द्वारकां यातः ॥ १२ ॥

इति सैरन्ध्रयामुपक्ष्लोकोत्पत्तिवर्णनं जरासन्धादियुद्धवर्णनं

मुचुकुन्दानुग्रहवर्णनं च

सप्तसप्ततितमं दशकं सद्विकम् ।


त्रिदि[१]ववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ १ ॥

 त्रिदिवेति । त्रिदि[२]ववर्धकिना विश्वकर्मणा वर्धितानि सर्वप्रयत्नेन कृतानि कौशलानि यत्र । त्रिदशैर्लोकपालैः दत्ताः प्रत्यर्पिताः समस्ता विभूतयः सुधर्मापारिजाताद्याः सन्त्यस्मिन्निति तथा । नवपुरं द्वारकां वपुरञ्चितेन रोचिषा देहकान्त्या त्वमभूषयः ॥ १ ॥

ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ २ ॥

 ददुषीति । रेवतो नाम राजा रेवत्याख्यामात्मतनयामादाय सत्यलोकं गत्वा ब्रह्माणं पृष्टवान् ‘एनां कस्मै प्रदास्यामी’ति ।'त्वत्समानकालिका राजानः सम्प्रत्यदर्शनं गताः । किन्तु त्वयि भूमिगते सति रामकृष्णाववतीर्णो भविष्यतः । तयो रामायैनां देही’ति विधेः शासनात् । समुदितैः सहितैः ॥ २ ॥


  1. 'दशवर्ध' क. ग. पाठः.
  2. 'दशवर्ध' क. ग. पाठ:.