पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
[स्कन्धः-१०
नारायणीये


अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव! सहोदरः ।
स्वयमादित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ३ ॥

 अथेति । सहोदरो रुक्मी । स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशुपालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन तमसाधुं चेदिनृपम् उपाश्रयन् ॥ ३ ॥

चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ ४ ॥

 चिरेति । कदनङ्गेन विनिर्मितं स्वस्य कढ़नं पीडाम् ॥ ४ ॥

द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ५ ॥

 द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्र[१]वेशम् | भवतापं संसारदुःखं हरतीति भवतापहृत् ॥ ५ ॥

स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ६॥

 स चेति । कुण्डिने विदर्भपुरे । तया प्रहितोऽस्मि ॥ ६ ॥

 रुक्मिण्याः सन्देशमाह द्वाभ्यां---

तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ॥ ७ ॥

 तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंवरप्रसङ्गात् प्रांगेव । अधुना स्वयंवरे चेदिनृपः शिशुपालः मां त्वद्धृतमनसं हरति हर्तुमुत्सहते किल । अयि कृपालय! भक्तवत्सल ! मां पालय शरीरमपि हृत्वा मनसा संयोजयेति तथा प्रजगदे ॥ ७ ॥


  1. 'व्प्रापम् ।' क. ग. पाठ:.