पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७९]
२६९
रुक्मिणीपरिणयवर्णनम् ।


अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद भृशं सुहृदयं हृदयं तव कातरम् ॥ ८ ॥

 अशरणामिति । अयं द्विजः इति सुतनो रुक्मिण्या गिरा तव हृदयं भृशं कातरं प्रियतमाप्राणापायमीरु अतनोत् ॥ ८ ॥

अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ९ ॥

 अकथय इति । तदधिका रुक्मिण्या अधिका । तत् तस्माद् अयि सखे ! नृपसमक्षं पश्यतां नृपाणां तां दयितां हरामि ॥ ९ ॥

प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥

 प्रमुदितेनेति । त्वद्वचनश्रवणेन प्रमुदितेन तेन द्विजेन समं सह रथे गतः लघु शीघ्रम् एयिवान् गतवान् भवान् । तनुतां न्यूनतां वितनुतां कुरुताम् ॥१०॥

इति द्वारकावासवर्णनं रुक्मिणीपरिणये भगवतः कुण्डिनपुरप्राप्तिवर्णनं च

अष्टसप्ततितमं दशकम् ।


बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ १ ॥

 बलेति। कलहशङ्किना बलसमेतेन सेनासहितेन श्रीबलभद्रेणानुगतः भीष्मकेण रुक्मिण्या जनकेन मानितः पूजितः । अगाहत प्रविवेश। त्वदुपागमवादिनं प्राप्तस्त्वद्दयित इति निवेदयन्तम् । धृतरसा सञ्जातकौतुका तरसा प्रणनाम, नान्यत् किञ्चिद् दत्तवती । सा श्रियोंऽशभूता नमस्कारेण स्वात्मानं समग्रां श्रियमर्पितवती ॥ १ ॥

भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ २ ॥