पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
[स्कन्धः - १०
नारायणीये


 भुवनेति । नृपसुतस्य रुक्मिणः चेष्टितं शिशुपालाय कन्यां साधयितुमुद्यमं रुक्मिण्याः सदृशं भवद्वपुश्चावेक्ष्य सरुदितैरुदितैः प्रलापैः ॥ २ ॥

तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।
निरगमद् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ ३ ॥

 तदन्विति । स्वपुरतः स्वस्य पुरात् । पुरतः पुरोभागे ॥ ३ ॥

कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् ।
मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ ४ ॥

 कुलेति । कुलवधूभिः मङ्गलस्त्रीभिः सहोपेत्य तत्पदपङ्कजे गिरिसुतापदपङ्कजे निपतिता केवलं [१] तव पतितां श्रीकृष्णो मे पतिर्भूयादिति मुहुरयाचत ॥ ४ ॥

समवलोक्य कुतूहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते ।
नृपसुता निरगाद् गिरिजालयात सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ ५ ॥

 समिति। त्वयि च निभृतं स्थिते तां हर्तुं रन्ध्रं प्रतीक्ष्य गूढं स्थिते सति । रुच्या रञ्जितानि दिङ्मुखानि यया ॥ ५ ॥

भुवनमोहनरूपरूचा तदा विवशिताखिलराजकदम्बया ।
त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ ६ ॥

 भुवनेति । विवशितः परवशीकृतः अखिलराजकदम्बो यया तया प्रमदया रुक्मिण्या त्वमपि मनाग ईषद् मदयाञ्चकृषे सञ्जातमदः कृतः ॥ ६ ॥

क्क नु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् ।
समधिरोप्य रथं त्वमपाह्टथा भुवि ततो विततो निनदो द्विषाम् ॥ ७ ॥

 क्व नु गमिष्यसीति । अपाहृथाः अपहृतवान् ॥ ७ ॥


  1. 'ते प' क. पाठ:.