क्क नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । |
क्क नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः । तैः पिशुनकैः दुर्जनैः भवान् न तूदचाल्यत, तान् भवान् नाजीगणदित्यर्थः । शुनकैः श्वभिः केसरीव ॥ ८॥
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निवध्य विरूपयन् । |
तदन्विति । रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमयाः प्राप्तवान् ॥ ९ ॥
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । |
नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकढ़ा । |
विविधनर्मभिरिति । प्रमदं हर्षमाकलयन् जनयन् । वऋगिरा वक्रोक्तया ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं [२]रमयन्निमाम् । |
तदधिकैरिति । प्रगदतां स्तुवतां गदतान्ति रोगपीडाम् अपाकुरु ॥१२॥
इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशकं सद्विकम् ।