पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
[स्कन्ध :-१०
नारायणीये


सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
 दिव्यं स्यमन्तकमणिं भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं
 तस्यात्मजां त्वयि रतां छलतो विवोदुम् ॥ १ ॥

 सत्राजित इति । तस्य स्यमन्तकयाचनस्य कारणं जाम्बवदनुग्रहतत्सुतावाप्तिसत्यभामादातृप्रतिग्रहीतृसत्राजिच्छतधन्ववधाक्रूरप्रीत्यापादनादिरूपं बहुविधं मम भाति प्रतिभाति । नूनम् एवं तु निश्चिनोमि । तस्य सत्राजित आत्मजां त्वयि रतां सत्यभामां छलतो व्याजेन विवोढुं विवाहार्थम् । खापराधभीरुणानिच्छतापि खसुतां दापयितुमित्यर्थः ॥ १ ॥

अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
 प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
 कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ २ ॥

 अदत्तमिति । कपीन्द्रो जाम्बवान् ॥ २ ॥

शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
 जनानां पीयूषं भवति गुणिनां दोषकणिका ।
ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
 प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ३ ॥

 शशंसुरिति । कृष्णो मे भ्रातरं हत्वा मणि हृतवानिति सत्राजिद्गिरमनु तच्छ्रुत्वा जनाः प्राङ्मणियाचनात् तव मणिजिघृक्षामप्युत्पश्यन्तस्त्वां मणिहरं शशंसुः । गुणिनां दोषकणिका दोषलेशोऽपि जनानां पीयूषवदाखादनीया भवति हि । हरिं सिंहमपि दृष्ट्वा कपेर्जाम्बवतो गुहाम् ॥ ३ ॥

भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
 मुकुन्दशरणं हि मां क इह रोद्भुमित्यालपन् ।
विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि-
 [१]क्ष्च॑रंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ ४ ॥


  1. 'श्चिरं त' ग. घ. ड. पाठः.