पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
[स्कन्धः - १०
नारायणीये



 उपगत इति । प्रमदसम्भ्रमेण हर्षातिशय जनितसौजन्यव्यापारत्वरया कम्प्रौ कम्पनशीलौ पयोधरौ यस्याः । विविधमाननं संमाननम् आदधतीं तो सुखं रमयाञ्चकृषे ॥ २ ॥

पृष्टा वरं पुनरसाववृणोद् वराकी
 भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमस्त्विति वदेद् बुध एव कामं
 सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥ ३ ॥

 पृष्टेति । यदिच्छसि, तद् वृण्विति त्वया पुनः प्रस्थाने वरं पृष्टा[१] असौ सैरन्ध्री भूयस्त्वया सुरतमेवावृणोद्, न मोक्षम् त्वत्सायुज्यसामीप्यादिरूपम् । तत्र बुधः सायुज्याख्यमोक्षरसाभिज्ञ एव सायुज्यमस्त्विति वदेत् प्रार्थयेत् । एषा तु वराकी निर्विषयमोक्षरसानभिज्ञेत्येतत् कामं भवतु | अनिशं सामीप्यमस्त्वि[२]त्यपि किं नाब्रवीत् । त्वत्सामीप्यसुखं तु तया कञ्चित् कालमनुभूतमेव । तस्मात् सर्वमीश्वरेच्छापरतन्त्रमिति वेदितव्यम् ॥ ३ ॥

ततो भवान् देव! निशासु कासुचि-
 न्मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपक्ष्लोक इति श्रुतं सुतं
 स नारदात् सात्वततन्त्रविद् बभौ ॥ ४ ॥

 तत इति । उपश्लोक इति श्रुतं विश्रुतं सुतम् अदादू उत्पादयामास । सः नारदात् सात्त्वततन्त्रं पाञ्चरात्राद्यागमं वेत्तीति तथा ॥ ४ ॥

अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या-
 मभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपाण्डवेय-
 वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ५ ॥

 अक्रूरेति । एनम् अक्रूरं विसृज्य विपिनाद् आगतानां पाण्डवेयानां वृत्त तथा धृतराष्ट्रचेष्टां च विवेदिथ ॥ ५ ॥


  1. 'टा सा सै' क. पाठः.
  2. 'स्त्विति किं' क. पाठः.