पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् ७७]
२६३
सैरन्ध्रयामुपक्ष्लोकोत्पत्तिवर्णनम् ।


एवं भक्तिः सकलभुवने नेक्षिता न[१] श्रुता वा
 किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
 दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ ११॥

 एवमिति । एवं गोपिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहितानामपि भक्ति[२]दर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमोऽस्तु । इति ‘एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्र पुरस्सरं पुनः पुनस्ता नमस्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राप्तं[३] तं त्यक्तभक्ताभिमानमुद्धवं दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ ॥

इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् ।


सैरन्ध्रयास्तदनु चिरं स्मरातुराया
 यातोऽभू: सललितमुद्धवेन सार्धम् ।
आवासं खदुपगमोत्सवं सदैव
 ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ १ ॥

 सैरन्ध्रया इति । अद्यैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभवसंभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्रया अनुलेपदाच्या आवासं सललितं ललितवेषभूषणसहायसम्पत्सहितं यथा भवति तथा यातोऽभूः । त्वदुपगमोत्सवं त्वत्सङ्गमकौतुकम् ॥ १ ॥

उपगते त्वयि पूर्णमनोरथां
 प्रमदसम्भ्रमकम्प्रपयोधराम् ।
विविधमाननमादधतीं मुदा
 रहसि तां रमयाञ्चकृषे सुखम् ॥ २ ॥


  1. 'बा' क. च. पाठ:.
  2. 'क्त्यतिशयद' क. ग. पाठ:.
  3. 'सवन्तं त्य' क. पाठ:.