पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२.
[स्कन्धः - १०
नारायणीये


 एवमुद्धवः स्त्रीणामपीश्वरे स्वातिशयप्रेमलक्षणभक्तिदर्शनात् त्यक्त्तभक्त्तंमन्यभाबस्ताः प्रत्येकमाश्वासयामास । तत्र प्रधानभूतायां[१] राधाया [२]माश्वासनप्रकारमाह--

राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
 त्वं किं मौनं कलयसि सखे! मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा-
 मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ ९ ॥

 राधाया इति । हे सखि! राधे! त्वत्प्रियः श्रीकृष्णः निर्जने मामित्यादि त्वत्सम्बन्धिवचनमेव प्रवदति । कथं, हे सखे! उद्धव! मे राधाया इदं प्रियतमं, मत्प्रिया सै[३] वं ब्रवीति, किं त्वं मानिनी मप्रियेव मौनं कलयसि धत्स इति । जनसंसदि तु तस्य गम्भीरचेतस्तया सन्नपि त्वद्विरहखेदो ज्ञातुमश[४]क्यः । अयम् उद्धव इत्थंवादैस्त्वत्प्रेमसूचकैर्वचनैरेव त्वप्रियां राधामरमयत् ॥ ९ ॥

 सन्देशमाह -

एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
 विक्ष्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग-
 स्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥१०॥

 एष्यामीति । अहं द्राग् झटिति एष्यामि । अनुपगमनं भवत्सन्निधावनागमनं केवलं मम कार्यभारादेव, न प्रेममान्यात् । किञ्च भवतीनां मद्विश्लेषो महते फलाय, मत्स्मरणस्य दृढतासम्भवात् । तस्माद् विश्लेष[५]विषयः खेदो मास्तु । स्मरणदृढतायाः समाध्यपरपर्यायायाः फलमाह - ब्रह्मानन्द इति । ब्रह्मरूपस्यमम स्मरणदृढतायां सत्यां नचिराद ब्रह्मानन्दे मिलति सति वो भवतीनां मत्सङ्गमो मद्वियोगश्च तुल्यः स्यात् । विरहेऽपि वः सर्वात्मना न मद्विरहः, भवतीनामप्यन्तरन्तर्यामिरूपेण ममैवावस्थानादिति भावः । इति या तव गीः सन्देशः, तया स उद्धवस्ता निर्व्यथा अकरोत् ॥ १० ॥


  1. 'या' क. ग. पाठ:.
  2. 'या आ' क. ग. पाठ:.
  3. 'राधैवं' क. पाठः.
  4. 'सुकरः । ' क. ग. पाठः.
  5. " 'षेऽपि वः खे' क. ग. पाठः.