पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -७६]
उद्धवदूत्यवर्णनम् ।


द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहक! कपट! तवोन्मादानाम् अननुसंहितपूर्वापराणां वचसां का[१] वा विस्मरेत् ॥ ५ ॥

रासक्रीडालुलितललितं विश्लथत्केशपाशं
 मन्दोद्भिन्नश्रमजलकणं लोभनीयं [२]त्वदङ्गम् ।
कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति
 प्रेमोन्मादाद् भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ॥६॥

 रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदङ्गं हे कारुण्याब्धे ! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन ! सर्वेषां  सर्वदापि सर्वकामोन्मादप्रद ! ॥ ६ ॥

एवम्पायैर्विवशवचनैराकुला गोपिकास्ता-
 स्त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि-
 स्तत्तद्वार्तासरसमनयत् कानिचिद् वासराणि ॥ ७ ॥

 एवमिति । अथोद्धवो विज्ञानगर्भैस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत् । त्वन्मयीभिः त्वच्चिन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति त[३]था कानिचिद् वासराण्यनयत् ॥ ७ ॥

त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं
 त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
 दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ८ ॥

 त्वदिति । उत्खापलापाः स्वप्नवचनानि सैव त्वद्वार्तैव । चेष्टाः व्यापाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वे त्वन्मयं दृष्ट्वा अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽभूदित्यर्थः ॥ ८ ॥


  1. 'का वि' क. पाठः.
  2. 'त' घ. ड. च. पाठ:.
  3. ’थान’ क. पाठः.