पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
[स्कन्धः - १०
नारायणीये


प्रातर्द्द्ष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
 श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ३ ॥

 त्वदिति । त्वन्माहात्म्यस्य प्रथिमा विस्तारः तत्पिशुनं तत्सूचकं गोकुलं तत्र नन्दगेहं प्राप्य सायं सन्ध्यायाम् । अतः खखगेहस्थाभिर्गोपीभिरुद्धवागमनं न विदितम् । अतः केवलं नन्दं यशोदामेव बहु अतिशयेन रमयामास । प्रातस्त्वदागमं शङ्किताः ॥ ३ ॥

दृष्ट्वा चैनं त्वदुषमलसद्वेषभूषाभिरामं
 स्मृत्वा स्मृखा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
 सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ ४ ॥

 दृष्ट्येति । त्वदुषमाभ्यां त्वद्वेषभूषणसदृशाभ्यां लसद्भ्यां वेषभूषाभ्याम् आभरणतद्विन्यासविशेषाभ्यामभिरामम् । अतः सदृशदर्शनादुच्चकैरतिशयेन तानि तानि विलसितानि क्रीडाः स्मृत्वा बाष्पकण्ठतया रुद्ध आलापो यासाम् | त्वद्गतमानसतया निजपरभिदां खपरभेदमपि ॥ ४ ॥

श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन
 कासौ कान्तो नगरसुदृशां हा हरे! नाय! पाया:[१]

आक्ष्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
 मुन्मादानां कुहकवचसां विस्मरेत् कान्त ! का वा ॥ ५॥

 श्रीमन्निति । निर्दयेन कृष्णेन पितृजनकृते नन्द्रयशोदयोः प्रियार्थं किं प्रेषितोऽसि । असौ नगरसुदृशां कान्तः विदग्धजनविधेय इदानीं व इति प्रणयवचनसमनुस्मृतभगवद्गुणकृतपारवश्या ऊचुः हा इति । हरे! भक्तजनसन्तापशमन! हा नाथ! अस्मत्प्राणसंरक्षक! निजरूपामृतपानेन जीवय | अमृतमयं वपुर्यस्य तस्य तव आक्ष्लोषाणां चुम्बनानां हन्त उन्मादानाम् आत्मानं विस्मृत्यैव कृतानां तत्त-


  1. 'हि' च. पाठः. 'प' घ. ड. पाठः.