पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७६]
२५९
उद्धवदूत्यवर्णनम् ।


 अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह-

गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
 सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
 दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ १ ॥

 गत्वेति । स्वतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थं सान्दीपनि नाम मुनिं गत्वोप[१]नयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं तस्मै गुरवे दक्षिणार्थं दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्रभवं शङ्खम् ॥ १ ॥

 श्रीकृष्णेन बृन्दावनान्मथुराप्रस्थाने गोपीनां परिताप[२] शमनार्थं यदुक्तम् ‘अचिरादुपयामि सन्निधिं व' इति, तत् सत्यं कर्तुमात्मनिर्विशेषमुद्धवं मथुरास्थः स्वयं प्रेषयामासेत्याह-

स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
 कारुण्येन त्वमपि विवशः माहिणोरुद्धवं तम् ।
किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
 भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ २ ॥

 स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात् प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवात्सल्येन विवशः परवशः। किञ्चेति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाहअमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रदर्शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम एव त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥

त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
 त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् ।


  1. 'पायनपूर्वकं प्रा' क. पाठः.
  2. 'पप्रश' क. पाठः.